पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Mankati  to Mahaadhriti )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE

Makara - Mangala ( Makara, Makha, Magadha, Magha, Mankana, Mankanaka, Manki, Mangala.)

Mangalachandi - Manikarnikaa  ( Mangalaa, Mani / gem, Manikarnikaa etc.)

Manikundala - Manduuka ( Manibhadra, Mandapa, Mandala, Manduuka / frog etc.)

Matanga - Matsyendranaatha  ( Matanga, Mati / intellect / intention, Matsya / fish etc.)

Matsyodari - Madanasundari ( Mathana, Mathuraa, Mada, Madana etc.)

Madanasundari - Madhu ( Madayanti, Madaalasaa, Madiraa / wine, Madra, Madhu / honey etc.)

Madhu - Madhya ( Madhu, Madhu-Kaitabha, Madhuchchhandaa, Madhusudana, Madhya / middle etc.)

Madhyandina - Manasvini (Madhyama / middle, Mana / mind, Manasaa etc.)

Manu - Manonuga ( Manu, Manojava etc. )

Manobhadra - Manahswaami ( Manoratha / wish, Manoramaa etc.)

Mantra - Manda ( Mantra, Manthana / stirring,  Mantharaa, Manda / slow etc.)

Mandagaa - Mandodari ( Mandara, Mandaakini, Mandira / temple, Mandehaa, Mandodari etc.)

Mandodari - Maya (Manthana / stirring, Manmatha, Manvantara, Mamataa, Maya etc. )

Mayuukha - Maru (  Mayuura / peacock, Mareechi, Maru etc. )

Maruta - Marudvati ( Maruta, Marutta etc.)

Marudvridhaa - Malla ( Marka, Markata / monkey, Maryaadaa / limit, Mala / waste, Malaya, Malla / wrestler etc. )

Mallaara - Mahaakarna ( Maha, Mahat, Mahaa etc. )

Mahaakaala - Mahaadhriti ( Mahaakaala, Mahaakaali, Mahaadeva etc. )

 

 

 

 

 

 

 

मधु

संदर्भ

*आ॒त्मा वै पुरु॑षस्य॒ मधु॒ यन्मध्व॒ग्नौ जु॒होत्या॒त्मान॑मे॒व तद्यज॑मानो॒ऽग्नौ प्र द॑धाति तैत्तिरीय संहिता २.३.२.९

*मधु॑षा॒ सं यौ॑त्य॒पां वा ए॒ष ओष॑धीनां॒ रसो॒ यन्मधु तै.सं. २.४.९.३

*घृ॒तेन॒ द्यावा॑पृथि॒वी मधु॑ना॒ समु॑क्षत॒ पय॑स्वतीः कृणु॒ताऽऽप॒ ओष॑धीः। ऊर्जं॑ च॒ तत्र॑ सुम॒तिं च॑ पिन्वथ॒ यत्रा॑ नरो मरुतः सि॒ञ्चथा॒ मधु॑।। - तै.सं. ३.१.११.८

*स्तोत्रोपाकरणप्रतिगराङ्गमन्त्राः -- - - - पृथिवि मातर्मा मा हिंसीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासं - - तै.सं. ३.३.२.२

*घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभि रक्षतादिमम् तै.सं. ३.३.८.१        

*त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमाः॑। स्वादोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ समत॑ ऊ॒ षु मधु॒ मधु॑ना॒ऽभि यो॑धि( इति गवामयने अतिग्राह्यायतने चत्वार्यतिग्राह्यपात्राणि प्रतिदिशं निहितानि भवन्ति) तै.सं. ३.५.१०.१

*मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः। माध्वी॑र्नः स॒न्त्वोष॑धीः।। मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त् पार्थि॑वं॒ रजः॑। मधु॒ द्यौर॑स्तु नः पि॒ता।। मधु॑मान् नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑। माध्वी॒र्गावो॑ भवन्तु नः।। म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम्। पि॒पृ॒तां नो॒ भरी॑मभिः।।(इति तिसृभिर्दध्ना मधुमिश्रेण कूर्ममभ्यज्य) - तै.सं. ४.२.९.३

*घृतस्य॒ धारा॑ अ॒भि चाक॑शीमि। हि॒र॒ण्ययो॑ वेत॒सो मध्य॑ आसाम्।।तस्मि॑न्त्सुप॒र्णो म॑धु॒कृत् कु॑ला॒यी भज॑न्नास्ते॒ मधु॑ दे॒वता॑भ्यः। तस्या॑ऽऽसते॒ हर॑यः स॒प्त तीरे॑ स्व॒धां दुहा॑ना अ॒मृत॑स्य॒ धारा॑म्।।(इति पुरुषशिर आदाय) - तै.सं. ४.२.९.६

*वसोर्धारा घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे तै.सं. ४.७.४.१

*यज्जीव॑न्तं कू॒र्ममु॑प॒दधा॑ति तेनाश्म॑शान॒चिद्वास्त॒व्यो॑ वा ए॒ष यत् कूर्मो मधु॒ वाता॑ ऋताय॒त इति॑ द॒ध्ना म॑धुमि॒श्रेणाभ्य॑नक्ति स्व॒दय॑त्ये॒वैनं॑ ग्रा॒म्यं वा ए॒तदन्नं यद्दध्या॑र॒ण्यं मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेणा॑भ्य॒नक्त्यु॒भय॒स्याव॑रुद्ध्यै तै.सं. ५.२.८.६

*प्रा॒णेषु॑ हिरण्यश॒ल्कान्प्रत्य॑स्यति प्रति॒ष्ठामेवै॑नद्गम॑यि॒त्वा प्रा॒णैः सम॑र्धयति द॒ध्ना म॑धुमि॒श्रेण॑ पूरयति मध॒व्यो॑ऽसा॒नीति॑ शृतात॒ङ्क्ये॑न मेध्य॒त्वाय॑ ग्रा॒म्यं वा ए॒तदन्नं॒ यद्दध्या॑र॒ण्यं मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेण॑ पू॒रय॑त्यु॒भय॒स्याव॑रुध्यै तै.सं. ५.२.९.३

*ये दे॒वा दे॒वाना॒मिति॑ द॒ध्ना म॑धुमि॒श्रेणावो॑क्षति हु॒ताद॑श्चै॒व दे॒वान॑हु॒ताद॑श्च यज॑मानः प्रीणाति॒ ते यजमानं प्रीणन्ति द॒ध्नैव हु॒तादः॑ प्री॒णाति॒ मधु॑षाऽहु॒तादो॑ ग्रा॒म्यं वा ए॒तदन्नं॒ यद्दध्या॑र॒ण्यं मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेणा॒वोक्ष॑त्यु॒भय॒स्याव॑रुद्ध्यै तै.सं. ५.४.५.२

*उदकु॒म्भान॑धिनि॒धाय॑ दा॒स्यो॑ मार्जा॒लीयं॒ परि नृत्यन्ति प॒दो नि॑घ्न॒तीरि॒दं म॑धुं॒ गाय॑न्त्यो॒ मधु॒ वै दे॒वानां॑ पर॒मम॒न्नाद्यं॑ तै.सं. ७.५.१०.१

*औद्ग्रभणहोमः। दीक्षाहुतिः। -- यज्ञेन वै देवाः इमां जितिं जिग्युः यैषामियं जितिः। ते होचुः कथं न इदं मनुष्यैरनभ्यारोह्यं स्यादिति। ते यज्ञस्य रसं धीत्वा यथा मधु मधुकृतो निर्द्धयेयुः विदुह्य यज्ञं, यूपेन योपयित्वा तिरोऽभवन्। अथ यदेनेनायोपयन्- तस्माद् यूपो नाम। - शतपथ ब्राह्मण १.६.२.१, ३.१.४.३, ३.२.२.२, ३.२.२.११, ३.२.२.२८, ३.४.३.१५, ३.७.१.२७

*प्रवर्ग्यकर्मण्यवान्तरदीक्षा मधु सारघमिति वा आहुः। यज्ञो वै मधु सारघम्। अथैत एव सरघो मधुकृतो यदृत्विजः। तद्यथा मधु मधुकृत आप्याययेयुः एवेवैतद्यज्ञमाप्याययन्ति श.ब्रा. ३.४.३.१४

*सोऽनक्ति देवस्त्वा सविता मध्वानक्तु इति। सविता वै देवानां प्रसविता। यजमानो वाऽएष निदानेन यद्यूपः। सर्वं वाऽइदं मधु यदिदं किञ्च। तदेनमनेन सर्वेण संस्पर्शयति। तदस्मै सविता प्रसविता प्रसौति। - श.ब्रा. ३.७.१.११

*आश्विन् ग्रहः अथातो गृह्णात्येव। या वां कशा मधुमत्यश्विना सूनृतावती। तया यज्ञं मिमिक्षतम्। उपयामगृहीतोऽस्यश्विभ्यां त्वा। एष ते योनिर्माध्वीभ्यां त्वा इति सादयति। तं वै मधुमत्यर्चा गृह्णाति, माध्वीभ्यां त्वेति सादयति। तद् यन्मधुमत्यर्चा गृह्णाति, माध्वीभ्यां त्वेति सादयति। दध्यङ् ह वाऽआभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच। तदेनयोः प्रियं धाम, तदेवैनयोरेतेनोपगच्छति। तस्मान्मधुमत्यर्चा गृह्णाति, माध्वीभ्यां त्वेति सादयति। - श.ब्रा. ४.१.५.१७-१८

*ऋतुग्रहाः -- अथातो गृह्णात्येव - उपयामगृहीतोऽसि मधवे त्वा इत्येवाध्वर्युर्गृह्णाति। उपयामगृहीतोऽसि माधवाय त्वा इति प्रतिप्रस्थाता। एतावेव वासन्तिकौ। स यद्वसन्तऽओषधयो जायन्ते, वनस्पतयः पच्यन्ते। तेनो हैतौ मधुश्च माधवश्च। - श.ब्रा. ४.३.१.१४

*अथ यत् पुष्करपर्णमुपदधाति, यत्कूर्मम्, यद्दधि, मधु, घृतम्। यत्किंचात्रान्नमुपदधाति सैवान्नं पञ्चमीष्टका। - श.ब्रा. ६.१.२.३०

*अपो देवीरुपसृज मधुमतीरयक्ष्माय प्रजाभ्यः(इति अपः श्वभ्रेऽवनयति)। रसो वै मधु। - श.ब्रा. ६.४.३.२

*प्रायणीय अथ जघनार्धेनोदीचीम्। घृतेन सीता मधुना समज्यताम् इति। - - विश्वैर्देवैरनुमता मरुद्भिः इति। ऊर्जस्वती पयसा पिन्वमाना इति । - श.ब्रा. ७.२.२.१०

*ऋतव्येष्टकाद्वयोपधानम् मधुश्च माधवश्च वासन्तिकावृतू इति। - - - श.ब्रा. ७.४.२.२९

*कूर्मेष्टकोपधानम् तमभ्यनक्ति दध्ना मधुना घृतेन। दधि हैवास्य लोकस्य रूपम्, घृतमन्तरिक्षस्य, मध्वमुष्य। स्वेनैवैनमेतद्रूपेण समर्धयति। अथो दधि हैवास्य लोकस्य रसः, घृतमन्तरिक्षस्य, मध्वमुष्य। - श.ब्रा. ७.५.१.३

*उपवसथीय अहः अथैनं समुक्षति दध्ना मधुना घृतेन। जायत एषः एतत्। यच्चीयते। स एष सर्वस्मा अन्नाय जायते। सर्वम्वेतदन्नम् यद्दधि, मधु, घृतम्। - श.ब्रा. ९.२.१.११

*अन्नं वै रूपम्। एतदु परममन्नम् यद्दधि, मधु, घृतम्। - श.ब्रा. ९.२.१.१२

*ये देवा देवानाम्, यज्ञिया यज्ञियानाम् इति। - - संवत्सरीणमुप भागमासते इति। - - अहुतादो हविषो यज्ञे अस्मिन् इति। अहुतादो हि प्राणाः। स्वयं पिबन्तु मधुनो घृतस्य इति। - श.ब्रा. ९.२.१.१४

*उपनयनधर्माभिधायकं ब्राह्मणम् तदाहुः न ब्रह्मचारी सन्मध्वश्नीयात्। ओषधीनां वा एष परमो रसो यन्मधु। नेदन्नाद्यस्यान्तं गच्छानीति। अथ ह स्माह श्वेतकेतुरारुणेयः। ब्रह्मचारी सन्मध्वश्नन्। त्रय्यै वा एतद्विद्यायै शिष्टं यन्मधु। स तु रसो यस्येदृक् शिष्टमिति। यथा ह वा ऋचं वा यजुर्वा साम वाऽभिव्याहरेत्। तादृक् तत्। य एवं विद्वान् ब्रह्मचारी सन्मध्वश्नाति। तस्मादु काममेवाश्नीयात्। - श.ब्रा. ११.५.४.१८

*ब्रह्मयज्ञलक्षणस्वाध्यायप्रशंसाख्यं ब्राह्मणम् मधु ह वा ऋचः। घृतं ह सामानि। अमृतं यजूंषि। यद्ध वा अयं वाकोवाक्यमधीते। क्षीरौदनमांसौदनौ हैव तौ। मधुना ह वा एष देवांस्तर्पयति। य एवं विद्वानृचोऽहरहः स्वाध्यायमधीते। त एनं तृप्तास्तर्पयंति सर्वैः कामैः सर्वैर्भोगैः। घृतेन ह वा एष देवांस्तर्पयति। य एवं विद्वान् सामान्यहरहः स्वाध्यायमधीते। - - - श.ब्रा. ११.५.७.५

*सौत्रामण्यां सोमसम्पत्तिः सर्वे पयस्वन्तो भवन्ति। पयसा हि सूयते। सर्वे सोमवन्तो भवन्ति। सोमरूपतायै। सर्वे परिस्रुन्मन्तो भवन्ति। परिस्रुता हि सूयते। सर्वे घृतवन्तो भवन्ति। तद्वै प्रत्यक्षाद्यज्ञरूपम्। यद् घृतम्। प्रत्यक्षादेवैनं यज्ञरूपं करोति। सर्वे मधुमन्तो भवन्ति। तद्वै प्रत्यक्षात्सोमरूपम्। यन्मधु। - श.ब्रा. १२.८.२.१५

*पितृमेधः अथ(गृहेष्वग्निं समाधाय) जुहोति आयुष्मानग्ने हविषा वृधानो घृतप्रतीको घृतयोनिरेधि। घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभिरक्षतादिमान्त्स्वाहा इति। - श.ब्रा. १३.८.४.९

*प्रवर्ग्यसृष्टिप्रतिपादकं ब्राह्मणम् (दध्यङ् के शिर छेदन व पुनः संधान की कथा के पश्चात्)- तस्मादेतदृषिणाऽभ्यनूक्तम्। दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच इति। अयतं तदुवाच। इति हैवैतदुक्तम्। - श.ब्रा. १४.१.१.२५

*घर्मसंदीपनं ब्राह्मणं स यत्रैतां होताऽन्वाह। अंजंति यं प्रथयन्तो न विप्राः। इति। तदेतं प्रचरणीयं महावीरमाज्येन समनक्ति देवस्त्वा सविता मध्वाऽनक्तु इति। सविता वै देवानां प्रसविता। सर्वं वा इदं मधु। यदिदं किंच। तदेनमनेन सर्वेण समनक्ति। - श.ब्रा. १४.१.३.१३

*अथ धवित्रैराधूनोति। मधु मधु इति त्रिः। प्राणो वै मधु। प्राणमेवास्मिन्नेतद्दधाति। त्रीणि भवंति। त्रयो वै प्राणाः। प्राण उदानो व्यानः। तानेवास्मिन्नेतद्दधाति। - श.ब्रा. १४.१.३.३०

*प्रवर्ग्येऽवकाशोपस्थानं ब्राह्मणम् मधु माध्वीभ्यां मधु माधूचीभ्याम् इति। दध्यङ् ह वा आभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच। तदेनयोः प्रियं धाम। तदेवैनयोरेतेनोपगच्छति। तस्मादाह मधु माध्वीभ्यां मधु माधूचीभ्याम्। - श.ब्रा. १४.१.४.१३

*गवाजपेयोऽवसेचनं ब्राह्मणम् मधुनः सारघस्य इति। एतद्वै मधु सारघम्। घर्मं पात इति। रसं पातेत्येवैतदाह। - श.ब्रा. १४.२.१.२०

*घर्मप्रचरणम् अथ यजमानाय घर्मोच्छिष्टं प्रयच्छति।स उपहवमिष्ट्वा भक्षयति मधु हुतमिन्द्रतमे अग्नौ इति। मधु हुतमिन्द्रियवत्तमेऽग्नौ इत्येवैतदाह। अश्याम ते देव घर्म नमस्ते अस्तु मा मा हिंसीः इति। - श.ब्रा. १४.२.२.४२

प्रथम लेखन 26-10-2011 ई.(कार्तिक अमावास्या, विक्रम संवत् 2068)